परा प्रत्यक्चितीरूपा पश्यन्ती परदेवता । मध्यमा वैखरीरूपा भक्तमानसहंसिका ॥ ८१ ॥
कामेश्वरप्राणनाडी कृतज्ञा कामपूजिता । शृङ्गाररससम्पूर्णा जया जालन्धरस्थिता ॥ ८२ ॥
ओड्याणपीठनिलया बिन्दुमण्डलवासिनी । रहोयागक्रमाराध्या रहस्तर्पणतर्पिता ॥ ८३ ॥
सद्यःप्रसादिनी विश्वसाक्षिणी साक्षिवर्जिता । षडङ्गदेवतायुक्ता षाड्गुण्यपरिपूरिता ॥ ८४ ॥
नित्यक्लिन्ना निरुपमा निर्वाणसुखदायिनी । नित्याषोडशिकारूपा श्रीकण्ठार्धशरीरिणी ॥ ८५ ॥
प्रभावती प्रभारूपा प्रसिद्धा परमेश्वरी । मूलप्रकृतिरव्यक्ता व्यक्ताव्यक्तस्वरूपिणी ॥ ८६ ॥
व्यापिनी विविधाकारा विद्याऽविद्यास्वरूपिणी । महाकामेशनयनकुमुदाह्लादकौमुदी ॥ ८७ ॥
भक्तहार्दतमोभेदभानुमद्भानुसन्ततिः । शिवदूती शिवाराध्या शिवमूर्तिः शिवङ्करी ॥ ८८ ॥
शिवप्रिया शिवपरा शिष्टेष्टा शिष्टपूजिता । अप्रमेया स्वप्रकाशा मनोवाचामगोचरा ॥ ८९ ॥
चिच्छक्तिश्चेतनारूपा जडशक्तिर्जडात्मिका । गायत्री व्याहृतिः सन्ध्या द्विजवृन्दनिषेविता ॥ ९० ॥