तत्त्वासना तत्त्वमयी पञ्चकोशान्तरस्थिता । निःसीममहिमा नित्ययौवना मदशालिनी ॥ ९१ ॥
मदघूर्णितरक्ताक्षी मदपाटलगण्डभूः । चन्दनद्रवदिग्धाङ्गी चाम्पेयकुसुमप्रिया ॥ ९२ ॥
कुशला कोमलाकारा कुरुकुल्ला कुलेश्वरी । कुलकुण्डालया कौलमार्गतत्परसेविता ॥ ९३ ॥
कुमारगणनाथाम्बा तुष्टिः पुष्टिर्मतिर्धृतिः । शान्तिः स्वस्तिमती कान्तिर्नन्दिनी विघ्ननाशिनी ॥ ९४ ॥
तेजोवती त्रिनयना लोलाक्षीकामरूपिणी । मालिनी हंसिनी माता मलयाचलवासिनी ॥ ९५ ॥